|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.107. अध्यायः 107
Mahabharata - Drona Parva - Chapter Topics
सङ्कुलयुद्धवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-107-0x(4535)(48949)
बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम्।
क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः॥ 7-107-1(48950)
बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम्।
आजघ्ने त्वरितो राजन्द्रोणानीकबिभित्सया॥ 7-107-2(48951)
क्षेमधूर्तिस्तु सङ्क्रुद्धः केकयस्य महात्मनः।
धनुश्चिच्छेद भल्लेन पीतेन निशितेन ह॥ 7-107-3(48952)
अथैनं छिन्नधन्वानं शरेणानतपर्वणा।
विव्याध समरे तूर्णं प्रवरं सर्वधन्विनाम्॥ 7-107-4(48953)
अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव।
व्यश्वसूतरथं चक्रे क्षमदूर्तिं महारथम्॥ 7-107-5(48954)
ततोऽपरेण भल्लेन पीतेन निशितेन च।
जहार नृपतेः कायाच्छिरोऽज्वलितकुण़्डलम्॥ 7-107-6(48955)
तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम्।
सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात्॥ 7-107-7(48956)
तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः।
सहसाऽभ्यपतत्सैन्यं तावकं पार्थकारणात्॥ 7-107-8(48957)
धृष्टकेतुं तथाऽऽयान्तं द्रोणहेतोः पराक्रमी।
वीरधन्वा महेष्वासो वारयामास भारत॥ 7-107-9(48958)
तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ।
शरैरनेकसाहस्रेरन्योन्यमभिजघ्नतुः॥ 7-107-10(48959)
तावुभौ नरशार्दूलौ युयुधाते परस्परम्।
महावने तीव्रमदौ वारणाविव यूथपौ॥ 7-107-11(48960)
गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ।
युयुधाते महावीर्यौ परस्परजिघांसया॥ 7-107-12(48961)
तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशाम्पते।
सिद्धचारणसङ्घानां विस्मयाद्भुतदर्शनम्॥ 7-107-13(48962)
वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम्।
द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत॥ 7-107-14(48963)
तदुत्सृज्य धनुच्छिन्नं चेदिराजो महारथः।
शक्तिं जग्राह विपुलां हेमदण्डामयस्मयीम्॥ 7-107-15(48964)
तां तु शक्तिं महावीर्यां दोर्भ्यामायस्य भारत।
चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति॥ 7-107-16(48965)
तया तु वीरघातिन्या शक्त्या त्वभिहतो भृशम्।
निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम्॥ 7-107-17(48966)
तस्मिन्विनिहते वीरे त्रैगर्तानां महारथे।
बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः॥ 7-107-18(48967)
सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत्।
ननाद च महानादं तर्जयन्पाण्डवं रणे॥ 7-107-19(48968)
माद्रेयस्तु ततः क्रुद्धो दुर्मुखं च शितैः शरैः।
भ्राता भ्रातरमायत्तो विव्याध प्रहसन्निव॥ 7-107-20(48969)
तं रणे रभसं दृष्ट्वा सहदेवं महाबलम्।
दुर्मुखो नवभिर्बाणैस्ताडयामास भारत॥ 7-107-21(48970)
दुर्मुखस्य तु भल्लेन च्छित्त्वा केतुं महाबलः।
जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः॥ 7-107-22(48971)
अथापरेण भल्लेन पीतेन निशितेन ह।
चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम्॥ 7-107-23(48972)
क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः।
सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः॥ 7-107-24(48973)
हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा।
आरुरोह रथं राजन्निरमित्रस्य भारत॥ 7-107-25(48974)
सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे।
जघान पृथुधारेण भल्लेन परवीरहा॥ 7-107-26(48975)
स पपात रथोपस्थान्निरमित्रो जनेश्वरः।
त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम्॥ 7-107-27(48976)
तं तु हत्वा महाबाहुः सहदेवो व्यरोचत।
यथा दाशरथी रामः खरं हत्वा महाबलम्॥ 7-107-28(48977)
हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर।
राजपुत्रं हतं दृष्ट्वा निरमित्रं महारथम्॥ 7-107-29(48978)
नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम्।
मुहूर्ताज्जितवाँल्लोके तदद्भुतमिवाभवत्॥ 7-107-30(48979)
सात्यकिं व्याघ्रदत्तस्तु शरैः सन्नतपर्वभिः।
चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे॥ 7-107-31(48980)
तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत्।
साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत्॥ 7-107-32(48981)
कुमारे निहते तस्मिन्मागधस्य सुते प्रभो।
मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन्॥ 7-107-33(48982)
विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः।
मिण्डिपालांस्तथा प्रासान्मुद्रान्मुसलानपि॥
अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम्॥ 7-107-34(48983)
तांस्तु सर्वान्स बलवान्सात्यकिर्युद्धदुर्मदः।
नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभः॥ 7-107-35(48984)
मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः।
बलं तेऽभज्यत विभो युयुधानशरार्दितम्॥ 7-107-36(48985)
नाशयित्वा रणे सैन्यं त्वदीयं तु समन्ततः।
विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः॥ 7-107-37(48986)
भज्यमानं बलं राजन्सात्वतेन महात्मना।
नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना॥ 7-107-38(48987)
ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी।
सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे॥ ॥ 7-107-39(48988)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे सप्ताधिकशततमोऽध्यायः॥ 107 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|